|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.6. अध्यायः 006
Mahabharata - Shanti Parva - Chapter Topics
कुन्त्या कर्णवधानुशोचिनो युधिष्ठिरस्याश्वासनम्॥ 1॥ युधिष्ठिरेण कुन्तींप्रति स्त्रीणां मन्त्रगोपनं माभूदिति शापदानम्॥ 2॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-6-0x(6712)(81037)
एतावदुक्त्वा देवर्षिर्विरराम स नारदः।
युधिष्ठिरस्तु राजर्षिर्दध्यौ शोकपरिप्लुतः॥ 12-6-1(81038)
तं दीनमनसं वीरमधोवदनमातुरम्।
निःश्वसन्तं यथा नागं पर्यश्रुनयनं तथा॥ 12-6-2(81039)
कुन्ती शोकपरीताङ्गी दुःखोपहतचेतना।
अब्रवीन्मधुराभाषा काले वचनमर्थवत्॥ 12-6-3(81040)
युधिष्ठिर महाबाहो नैनं शोचितुमर्हसि।
जहि शोकं महाप्राज्ञ श्रृणु चेदं वचो मम॥ 12-6-4(81041)
याचितः स मया पूर्वं भ्राता ज्ञापयितुं तव।
भास्करेण च देवेन पित्रा धर्मभृतां वरः॥ 12-6-5(81042)
यद्वाच्यं हितकामेन सुहृदां भूतिमिच्छता।
तथा दिवाकरेणोक्तः स्वप्नान्ते मम चाग्रतः॥ 12-6-6(81043)
न चैनमशकद्भानुरहं वा स्नेहकारणैः।
पुरा प्रत्यनुनेतुं वा नेतुं वाऽप्येकतां त्वया॥ 12-6-7(81044)
ततः कालपरीतः स वैरस्योद्धरणे रतः।
प्रतीपकारी युष्माकमिति चोपेक्षितो मया॥ 12-6-8(81045)
इत्युक्तो धर्मराजस्तु मात्रा बाष्पाकुलेक्षणः।
उवाच वाक्यं धर्मात्मा शोकव्याकुललोचनः॥ 12-6-9(81046)
भवत्या गूढमन्त्रत्वाद्वञ्चिताः स्म तदा भृशम्॥ 12-6-10(81047)
शशाप च महातेजाः सर्वलोकेषु योषितः।
न गुह्यं धारयिष्यन्तीत्येवं दुःखसमन्वितः॥ 12-6-11(81048)
स राजा पुत्रपौत्राणां संबन्धिसुहृदां तदा।
स्मरन्नुद्विग्नहृदयो बभूवोद्विग्नचेतनः॥ 12-6-12(81049)
ततः शोकपरीतात्मा सधूम इव पावकः।
निर्वेदमगमद्धीमान्राज्ये संतापपीडितः॥ ॥ 12-6-13(81050)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि षष्ठोऽध्यायः॥ 6॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-6-1 दध्यौ भ्रातृवधजं दोषं चिन्तितवान्॥ 12-6-5 यातितः स मया पूर्वं भ्रात्र्यमिति झ. पाठः। तत्र यातितः प्रवर्तितस्तवतुभ्यं भ्रात्र्यं भ्रातुः कर्म कनिष्ठानां परिपालनं ज्ञःपयितुं त्वया सौभ्रात्रं युधिष्ठिरादिभ्यः प्रदर्शनीयमित्यभ्यर्थित इत्यर्थः॥ 12-6-7 प्रत्यनुनेतुं शययितुम्॥ 12-6-8 कालपरीतो मृत्युग्रस्तः। उद्धरणे शत्रूणां निःशेषनाशेनोन्मूलने॥ 12-6-12 कर्मणिषष्ठ्यौ॥ 12-6-13 निर्वेदं राज्यादौ वैराग्यम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|